वांछित मन्त्र चुनें

नाहं वे॑द भ्रातृ॒त्वं नो स्व॑सृ॒त्वमिन्द्रो॑ विदु॒रङ्गि॑रसश्च घो॒राः । गोका॑मा मे अच्छदय॒न्यदाय॒मपात॑ इत पणयो॒ वरी॑यः ॥

अंग्रेज़ी लिप्यंतरण

nāhaṁ veda bhrātṛtvaṁ no svasṛtvam indro vidur aṅgirasaś ca ghorāḥ | gokāmā me acchadayan yad āyam apāta ita paṇayo varīyaḥ ||

पद पाठ

न । अ॒हम् । वे॒द॒ । भ्रा॒तृ॒ऽत्वम् । नो इति॑ । स्व॒सृ॒ऽत्वम् । इन्द्रः॑ । वि॒दुः॒ । अङ्गि॑रसः । च॒ । घो॒राः । गोऽका॑माः । मे॒ । अ॒च्छ॒द॒य॒न् । यत् । आय॑म् । अप॑ । अतः॑ । इ॒त॒ । प॒ण॒यः॒ । वरी॑यः ॥ १०.१०८.१०

ऋग्वेद » मण्डल:10» सूक्त:108» मन्त्र:10 | अष्टक:8» अध्याय:6» वर्ग:6» मन्त्र:5 | मण्डल:10» अनुवाक:9» मन्त्र:10


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (पणयः) हे वणिजों की भाँति जलरक्षकों मेघों ! (अहं भ्रातृत्वं न वेद) मैं तुम लोगों के भ्रातृभाव को नहीं जानती हूँ, नहीं मानती हूँ (न-उ स्वसृत्वम्) नहीं तुम्हारी भगिनी हूँ, ऐसा जानती हूँ और न मानती हूँ (इन्द्रः) विद्युद्देव (च) तथा (घोराः-अङ्गिरसः) शक्तिमान् विद्युन्मय वायुएँ (विदुः) जानें या मानें, मैं जानने या मानने में स्वतन्त्र नहीं हूँ  (मे गोकामाः-अच्छदयन्) मेरे शासक जल चाहनेवाले तुम पर छा जावें-आक्रमण करें-छा जायेंगे-आक्रमण करेंगे (यत्-आयम्) जिनके पास से मैं आई हूँ (अतः) इस स्थान से (वरीयः) अति दूर (अप-इत) चले जाओ ॥१०॥ आध्यात्मिकयोजना−हे विषयव्यवहारप्रवर्तक इन्द्रिय प्राण ! मैं चेतना तुम्हारे साथ भ्रातृभाव को नहीं मानती हूँ, न स्वसृभाव-बहिन का नाता मान्ती हूँ, किन्तु ऐश्वर्यवान् परमात्मा के प्रबल नियम जानें, वे मेरे शासक हैं, जिसके लिये विषय-प्रवृत्तियाँ हैं, जिससे मैं शरीर में आई हूँ, वे तुम्हें पृथक कर देंगे, यहाँ से दूरातिदूर चले जाओ ॥१०॥
भावार्थभाषाः - अनाधिकृत वस्तु को अपने अधिकार में लेनेवाले समझाने के लिये कोई जावें, तो उनके प्रलोभन में न आकर उचित बात ही समझाया करें ॥१०॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (पणयः) हे पणयः-गोरक्षका जलरक्षका वा ! (अहं भ्रातृत्वं न वेद न उ स्वसृत्वम्) अहं भ्रातृभावं न जानामि-मन्ये नहि स्वसृभावं जानामि मन्ये वा (इन्द्रः-घोराः-अङ्गिरसः-च विदुः) विद्युद्देवस्तथा शक्तिमन्तस्तन्मया वायवो जानीयुर्मन्येरन् नाहं स्वतन्त्रा, “अङ्गिरसो वायोः” [ऋ० २।११।२० दयानन्दः] (मे गोकामाः-अच्छदयन्) मम शासकाः-गोकामाः रश्मिकामा जलकामा वा युष्माकमुपरि खल्वाक्रमणं करिष्यन्ति, युष्मत्स्थानं स्वाधिकारे ग्रहीष्यन्ति (यत्-आयम्) यतोऽहमागता (अतः-वरीयः-अप-इत) अस्मात्स्थानाद्दूरतरं स्थानमपगच्छत यूयम् ॥१०॥ आध्यात्मिकयोजना−हे विषयव्यवहारप्रवर्त्तकेन्द्रियप्राणाः ! अहं चेतना युष्माभिः सह भ्रातृत्वं न मन्ये न च स्वसृत्वं मन्ये किन्तु ऐश्वर्यवान् परमात्मा तस्य प्रबला नियमाः जानीयुस्ते मम शासकाः, यदर्था विषयप्रवृत्तयः सन्ति। यतोऽहं शरीरे खल्वागच्छामि, ते युष्मानितोऽपवारयिष्यन्ति, अतो यूयमितो दूरतरमपगच्छत ॥१०॥